(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 13 अनुशासनपर्व


॥ श्रीः ॥
13.7. अध्यायः 007
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति विश्वामित्रस्योत्पत्तिप्रकारकथनेनैव ब्राह्मण्यप्राप्तिप्रकारकधनम्॥ 1 ॥


Mahabharata - Anushaasana Parva - Chapter Text

भीष्म उवाच।

श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा।
ब्राह्मणत्वं गतस्तात् ब्रह्मर्षित्वं तथैव च॥ 13-7-1(81460)
भरतस्यान्ववाये वै मिथिलो नाम पार्थिवः।
बभूव भरतश्रेष्ठ यज्वा धर्मभृतांवरः॥ 13-7-2(81461)
तस्य पुत्रो महानासीञ्जह्नुर्नाम नरेश्वरः।
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः॥ 13-7-3(81462)
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः।
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः॥ 13-7-4(81463)
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः।
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः॥ 13-7-5(81464)
कुशिकस्यात्मजः श्रीमान्गाधिर्नाम जनेश्वरः।
अपुत्रः प्रसवेनार्थी वनवासमुपावसत्॥ 13-7-6(81465)
कन्या जज्ञे सुतात्तस्य वने निवसतः सतः।
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि॥ 13-7-7(81466)
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः।
ऋचीक इति विख्यातो विपुले तपसि स्थितः॥ 13-7-8(81467)
स तां न प्रददौ तस्मै ऋचीकाय महात्मने।
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः॥ 13-7-9(81468)
प्रत्याख्याय पुनर्यान्तमब्रवीद्राजसत्तप्रः।
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम्॥ 13-7-10(81469)
ऋचीक उवाच। 13-7-11x(6761)
किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप।
दुहितुर्ब्रूह्यसंसक्तो माऽभूत्तत्र विचारणा॥ 13-7-11(81470)
गाधिरुवाच। 13-7-12x(6762)
चन्द्ररश्मिप्रकाशानां हयानां वातरहसाम्।
एकतः श्यामकर्णानां सहस्रं दाह भार्गव॥ 13-7-12(81471)
भीष्म उवाच। 13-7-13x(6763)
ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः।
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम्॥ 13-7-13(81472)
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्।
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम॥ 13-7-14(81473)
तथेति वरुणो देव आदित्यो भृगुसत्तमम्।
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः॥ 13-7-15(81474)
ध्यातमात्रे ऋचीकेन हयानां चन्द्रवर्चसाम्।
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम्॥ 13-7-16(81475)
अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम्।
अश्वतीर्थं तदद्यापि मानवाः परिचक्षते॥ 13-7-17(81476)
ततो वै गाधये तात सहस्रं वाजिनां शुभम्।
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः॥ 13-7-18(81477)
ततः स विस्मितो राजा गाधिः शापभयेन च।
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै॥ 13-7-19(81478)
जग्राह विधिवत्पाणिं तस्या ब्रह्मर्षिसत्तमः।
सा च तं पतिमासाद्य परं हर्षमवाप ह॥ 13-7-20(81479)
स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत।
छन्दयामास चैवैनां वरेण वरवर्णिनीम्॥ 13-7-21(81480)
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम।
अथतामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीम्॥ 13-7-22(81481)
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति।
अपत्यस्य प्रदानेन समर्थश्च महातपाः॥ 13-7-23(81482)
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्।
मातुश्चिकीर्षितं राजन्ऋचीकस्तामथाब्रवीत्॥ 13-7-24(81483)
गुणवन्तं च पुत्रं वै त्वं च साऽथ जनिष्यथ।
जनन्यास्तव कल्याणि मा भूद्वै प्रणयोऽन्यथा॥ 13-7-25(81484)
तव चैव गुणश्लाघी पुत्र उत्पत्स्यते महान्।
अस्मद्वंशकरः श्रीमांस्तव भ्राता च वंशकृत्॥ 13-7-26(81485)
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम्।
परिष्वजेतं कल्याणि तत इष्टमवाप्स्यथः॥ 13-7-27(81486)
चरुद्वयमिदं चैव मन्त्रपूतं शुचिस्मिते।
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः॥ 13-7-28(81487)
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत।
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम्॥ 13-7-29(81488)
तामुवाच ततो माता सुतां सत्यवतीं तदा।
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम॥ 13-7-30(81489)
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः।
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च॥ 13-7-31(81490)
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते।
यदि प्रमाणं वचनं मम मातुरनिन्दिते॥ 13-7-32(81491)
स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम्।
व्यक्तं भगवता चात्र कृतमेवं भविष्यति॥ 13-7-33(81492)
ततो मे त्वच्चरौ भावः पादपे च समुध्यमे।
कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय 13-7-34(81493)
तथाच कृतवत्यौ ते माता सत्यवती च सा।
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर॥ 13-7-35(81494)
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः।
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः॥ 13-7-36(81495)
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति।
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे॥ 13-7-37(81496)
मया हि विश्वं यद्ब्राह्म त्वच्चरौ सन्निवेशितम्।
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशितम्॥ 13-7-38(81497)
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि।
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया॥ 13-7-39(81498)
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा च ते शुभे।
तस्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति॥ 13-7-40(81499)
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि।
न हि ते तत्कृतं साधु मातृस्नेहेन भामिनि॥ 13-7-41(81500)
सा श्रुत्वा शोकसंतप्ता पपात वरवर्णिनी।
भूमौ सत्यवती राजंश्छिन्नेव रुचिरा लता॥ 13-7-42(81501)
प्रतिलभ्य च सा सञ्ज्ञां शिरसा प्रणिपत्य च।
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम्॥ 13-7-43(81502)
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदांवर।
प्रसादं कुरु विप्रर्षे न मे स्यात्त्रत्रियः सुतः॥ 13-7-44(81503)
कामं ममोग्रकर्मा वै पौत्रो भवितुमर्हति।
न तु मे स्यात्सुतो ब्रह्मन्नेष मे दीयतां वरः॥ 13-7-45(81504)
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः।
ततः सा जनयामास जमदग्निं सुतं शुभम्॥ 13-7-46(81505)
विश्वामित्रं चाजनयद्गाधिभार्या यशस्विनी।
ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षि ब्रह्मवादिनम्॥ 13-7-47(81506)
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः।
क्षत्रियः सोऽप्यथ तथा ब्रह्मवंशस्य कारकः॥ 13-7-48(81507)
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः।
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च॥ 13-7-49(81508)
मधुच्छन्दश्च भगवान्देवरातश्च वीर्यवान्।
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथस्तथा॥ 13-7-50(81509)
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः।
उलूको यमदूतश्च तथर्षिः सैन्धवायनः॥ 13-7-51(81510)
पर्णजङ्घश्च भगवान्गावलश्च महानृषिः।
ऋषिर्वज्रस्तथा ख्यातः सालङ्कायन एव च॥ 13-7-52(81511)
लीलाढ्यो नारदश्चैव तथा कूर्चामुखः स्मृतः।
वादुलिर्मुसलश्चैव वक्षोग्रीवस्तथैव च। 13-7-53(81512)
आङ्घ्रिको नैकदृक्चैव शिलायूपः सितः शुचिः।
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः॥ 13-7-54(81513)
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा।
कारीषिरथ संश्रुत्यः परपौरवतन्तवः॥ 13-7-55(81514)
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः।
तथैव चोपगहनस्तथर्षिश्चासुरायणः॥ 13-7-56(81515)
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः।
भूतिर्विभूतिः सूतश्च सुरकृत्तु तथैव च॥ 13-7-57(81516)
अरालिर्नाचिकश्चैव चाम्पेयोज्जयनौ तथा।
नवतन्तुर्बकनखः सेयनो यतिरेव च॥ 13-7-58(81517)
अम्भोरुदश्चारुमत्स्यः शिरीषी चाथ गार्दभिः।
ऊर्जयोनिरुदापेक्षी नारदी च महानृषिः।
विश्वामित्रात्मजाः सर्वे मुनयो ब्रह्मवादिनः॥ 13-7-59(81518)
तथैव क्षत्रियो राजन्विश्वामित्रो महातपाः।
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर॥ 13-7-60(81519)
एतत्ते सर्वमाख्यातं तत्वेन भरतर्षभ।
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः॥ 13-7-61(81520)
यत्रयत्र च सन्देहो भूयस्ते राजसत्तम।
तत्रतत्र च मां ब्रूहि च्छेत्ताऽस्मि तव संशयान्॥ ॥ 13-7-62(81521)

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तमोऽध्यायः॥ 7 ॥

Mahabharata - Anushaasana Parva - Chapter Footnotes

7-7-1 ब्राह्मणेष्वपि ऋषित्वं मन्त्रद्रष्टृत्वं गोत्रप्रवर्तकत्वं वा॥ 7-7-2 भरतस्यान्वये चैवाजमीढ इति झ.पाठः॥ 7-7-5 पिप्पलस्तस्य तनय इति य, पाठः। पल्लवस्तस्येति ट. पाठः॥ 7-7-6 प्रसवेन सोमाभिषवनिमित्तेन। अर्थी पुत्रार्थी॥ 7-7-7 सुतात् सोमा भिषवोपलक्षिकताद्यज्ञात्॥ 7-7-8 भार्गवो भृगोर्गोत्रापत्यम्॥ 7-7-10 वत्स्यसि उद्वाहेन प्राप्स्यसि॥ 7-7-11 असंसक्तो निःसंशयः॥ 7-7-13 आदित्यमदितेः पुत्रम्॥ 7-7-15 वरेण पुत्रं ते दास्यामीत्यनुग्रहेण॥ 7-7-30 पूर्वोपपन्नाया भर्तुः सम्बन्धात्पूर्वमुपपन्नायाः गुरुत्वेन प्राप्तायास्तव भर्त्रपेक्षयाहं गरीयसीत्यर्थः। पुत्रि पूर्वप्रपन्नाया इति ट.ध पाठः॥ 7-7-44 क्षत्रियः क्षत्रियवदुग्रक्रमा॥ 7-7-53 ऊर्घ्वलिर्मुसलश्चेति ट.ध.पाठ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.